முக்கிய உள்ளடக்கத்திற்கு செல்
ॐ
VedPanchang
துல்லியமான வேத ஜோதிடம்
முகப்பு
பஞ்சாங்கம்
நாள்காட்டி
முகூர்த்தம்
திருவிழாக்கள்
ராசிபலன்
விரதம்
யோகங்கள்
கிரகங்கள்
ஜோதிடம்
தெய்வங்கள்
பூஜை முறை
பக்தி
முகப்பு
›
பக்தி
›
Namavali
›
Lalita Sahasranama — 1000 Names of Goddess Lalita (Namavali format)
Lalita Sahasranama — 1000 Names of Goddess Lalita (Namavali format)
Goddess Lalita Tripurasundari
தேவநாகரி
ஒலிபெயர்ப்பு
ஆங்கில பொருள்
நகலெடு
॥ श्री ललितासहस्रनामावली ॥ (ब्रह्माण्डपुराणे उत्तरभागे ललितोपाख्याने) ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः । ॐ श्रीमहाराज्ञै नमः । ॐ श्रीमत्सिंहासनेश्वर्यै नमः । ॐ चिदग्निकुण्डसम्भूतायै नमः । ॐ देवकार्यसमुद्यतायै नमः । ॐ उद्यद्भानुसहस्राभायै नमः । ॐ चतुर्बाहुसमन्वितायै नमः । ॐ रागस्वरूपपाशाढ्यायै नमः । ॐ क्रोधाकाराङ्कुशोज्ज्वलायै नमः । ॐ मनोरूपेक्षुकोदण्डायै नमः ॥ १० ॥ ॐ पञ्चतन्मात्रसायकायै नमः । ॐ निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डलायै नमः । ॐ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचायै नमः । ॐ कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डितायै नमः । ॐ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितायै नमः । ॐ मुखचन्द्रकलङ्काभमृगनाभिविशेषकायै नमः । ॐ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिकायै नमः । ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः । ॐ नवचम्पकपुष्पाभनासादण्डविराजितायै नमः । ॐ ताराकान्तितिरस्कारिनासाभरणभासुरायै नमः ॥ २० ॥ ॐ कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरायै नमः । ॐ ताटङ्कयुगलीभूततपनोडुपमण्डलायै नमः । ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः । ॐ नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदायै नमः । ॐ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वलायै नमः । ॐ कर्पूरवीटिकामोदसमाकर्षि दिगन्तरायै नमः । ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः । ॐ मन्दस्मितप्रभापूरमज्जत्कामेशमानसायै नमः । ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः । ॐ कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ॥ ३० ॥ ॐ कनकाङ्गदकेयूरकमनीयमुजान्वितायै नमः । ॐ रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्वितायै नमः । ॐ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तन्यै नमः । ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः । ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः । ॐ स्तनभारदलन्मध्यपट्टबन्धवलित्रयायै नमः । ॐ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतट्यै नमः । ॐ रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः । ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः । ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः ॥ ४० ॥ ॐ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिकायै नमः । ॐ गूढगुल्फायै नमः । ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः । ॐ नखदीधितिसञ्छन्ननमज्जनतमोगुणायै नमः । ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः । ॐ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजायै नमः । ॐ मरालीमन्दगमनायै नमः । ॐ महालावण्यशेवधये नमः । ॐ सर्वारुणायै नमः । ॐ अनवद्याङ्ग्यै नमः ॥ ५० ॥ ॐ सर्वाभरणभूषितायै नमः । ॐ शिवकामेश्वराङ्कस्थायै नमः । ॐ शिवायै नमः । ॐ स्वाधीनवल्लभायै नमः । ॐ सुमेरुमध्यशृङ्गस्थायै नमः । ॐ श्रीमन्नगरनायिकायै नमः । ॐ चिन्तामणिगृहान्तस्थायै नमः । ॐ पञ्चब्रह्मासनस्थितायै नमः । ॐ महापद्माटवीसंस्थायै नमः । ॐ कदम्बवनवासिन्यै नमः ॥ ६० ॥ ॐ सुधासागरमध्यस्थायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायिन्यै नमः । ॐ देवर्षिगणसङ्घातस्तूयमानात्मवैभायै नमः । ॐ भण्डासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः । ॐ सम्पत्करीसमारूढसिन्दुरव्रजसेवितायै नमः । ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः । ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः । ॐ गेयचक्ररथारूढमन्त्रिणीपरिसेवितायै नमः । ॐ किरिचक्ररथारूढदण्डनाथापुरस्कृतायै नमः ॥ ७० ॥ ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः । ॐ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः । ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः । ॐ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दितायै नमः । ॐ मन्त्रिण्यम्बाविरचितविषङ्गवधतोषितायै नमः । ॐ विशुक्रप्राणहरणवाराहीवीर्यनन्दितायै नमः । ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः । ॐ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षितायै नमः । ॐ भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः । ॐ कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ॥ ८० ॥ ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः । ॐ कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः । ॐ ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः । ॐ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः । ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः । ॐ कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः । ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः । ॐ मूलमन्त्रात्मिकायै नमः । ॐ मूलकूटत्रयकलेवरायै नमः । ॐ कुलामृतैकरसिकायै नमः ॥ ९० ॥ ॐ कुलसङ्केतपालिन्यै नमः । ॐ कुलाङ्गनायै नमः । ॐ कुलान्तस्थायै नमः । ॐ कौलिन्यै नमः । ॐ कुलयोगिन्यै नमः । ॐ अकुलायै नमः । ॐ समयान्तस्थायै नमः । ॐ समयाचारतत्परायै नमः । ॐ मूलाधारैकनिलयायै नमः । ॐ ब्रह्मग्रन्थिविभेदिन्यै नमः ॥ १०० ॥ ॐ मणिपूरान्तरुदितायै नमः । ॐ विष्णुग्रन्थिविभेदिन्यै नमः । ॐ आज्ञाचक्रान्तरालस्थायै नमः । ॐ रुद्रग्रन्थिविभेदिन्यै नमः । ॐ सहस्राराम्बुजारूढायै नमः । ॐ सुधासाराभिवर्षिण्यै नमः । ॐ तटिल्लतासमरुच्यै नमः । ॐ षट्चक्रोपरिसंस्थितायै नमः । ॐ महासक्त्यै नमः । ॐ कुण्डलिन्यै नमः ॥ ११० ॥ ॐ बिसतन्तुतनीयस्यै नमः । ॐ भवान्यै नमः । ॐ भावनागम्यायै नमः । ॐ भवारण्यकुठारिकायै नमः । ॐ भद्रप्रियायै नमः । ॐ भद्रमूर्त्यै नमः । ॐ भक्तसौभाग्यदायिन्यै नमः । ॐ भक्तिप्रियायै नमः । ॐ भक्तिगम्यायै नमः । ॐ भक्तिवश्यायै नमः ॥ १२० ॥ ॐ भयापहायै नमः । ॐ शाम्भव्यै नमः । ॐ शारदाराध्यायै नमः । ॐ शर्वाण्यै नमः । ॐ शर्मदायिन्यै नमः । ॐ शाङ्कर्यै नमः । ॐ श्रीकर्यै नमः । ॐ साध्व्यै नमः । ॐ शरच्चन्द्रनिभाननायै नमः । ॐ शातोदर्यै नमः ॥ १३० ॥ ॐ शान्तिमत्यै नमः । ॐ निराधारायै नमः । ॐ निरञ्जनायै नमः । ॐ निर्लेपायै नमः । ॐ निर्मलायै नमः । ॐ नित्यायै नमः । ॐ निराकारायै नमः । ॐ निराकुलायै नमः । ॐ निर्गुणायै नमः । ॐ निष्कलायै नमः ॥ १४० ॥ ॐ शान्तायै नमः । ॐ निष्कामायै नमः । ॐ निरुपप्लवायै नमः । ॐ नित्यमुक्तायै नमः । ॐ निर्विकारायै नमः । ॐ निष्प्रपञ्चायै नमः । ॐ निराश्रयायै नमः । ॐ नित्यशुद्धायै नमः । ॐ नित्यबुद्धायै नमः । ॐ निरवद्यायै नमः ॥ १५० ॥ ॐ निरन्तरायै नमः । ॐ निष्कारणायै नमः । ॐ निष्कलङ्कायै नमः । ॐ निरुपाधये नमः । ॐ निरीश्वरायै नमः । ॐ नीरागायै नमः । ॐ रागमथन्यै नमः । ॐ निर्मदायै नमः । ॐ मदनाशिन्यै नमः । ॐ निश्चिन्तायै नमः ॥ १६० ॥ ॐ निरहङ्कारायै नमः । ॐ निर्मोहायै नमः । ॐ मोहनाशिन्यै नमः । ॐ निर्ममायै नमः । ॐ ममताहन्त्र्यै नमः । ॐ निष्पापायै नमः । ॐ पापनाशिन्यै नमः । ॐ निष्क्रोधायै नमः । ॐ क्रोधशमन्यै नमः । ॐ निर्लोभायै नमः ॥ १७० ॥ ॐ लोभनाशिन्यै नमः । ॐ निःसंशयायै नमः । ॐ संशयघ्न्यै नमः । ॐ निर्भवायै नमः । ॐ भवनाशिन्यै नमः । ॐ निर्विकल्पायै नमः । ॐ निराबाधायै नमः । ॐ निर्भेदायै नमः । ॐ भेदनाशिन्यै नमः । ॐ निर्नाशायै नमः ॥ १८० ॥ ॐ मृत्युमथन्यै नमः । ॐ निष्क्रियायै नमः । ॐ निष्परिग्रहायै नमः । ॐ निस्तुलायै नमः । ॐ नीलचिकुरायै नमः । ॐ निरपायायै नमः । ॐ निरत्ययायै नमः । ॐ दुर्लभायै नमः । ॐ दुर्गमायै नमः । ॐ दुर्गायै नमः ॥ १९० ॥ ॐ दुःखहन्त्र्यै नमः । ॐ सुखप्रदायै नमः । ॐ दुष्टदूरायै नमः । ॐ दुराचारशमन्यै नमः । ॐ दोषवर्जितायै नमः । ॐ सर्वज्ञायै नमः । ॐ सान्द्रकरुणायै नमः । ॐ समानाधिकवर्जितायै नमः । ॐ सर्वशक्तिमय्यै नमः । ॐ सर्वमङ्गलायै नमः ॥ २०० ॥ ॐ सद्गतिप्रदायै नमः । ॐ सर्वेश्वर्यै नमः । ॐ सर्वमय्यै नमः । ॐ सर्वमन्त्रस्वरूपिण्यै नमः । ॐ सर्वयन्त्रात्मिकायै नमः । ॐ सर्वतन्त्ररूपायै नमः । ॐ मनोन्मन्यै नमः । ॐ माहेश्वर्यै नमः । ॐ महादेव्यै नमः । ॐ महालक्ष्म्यै नमः ॥ २१० ॥ ॐ मृडप्रियायै नमः । ॐ महारूपायै नमः । ॐ महापूज्यायै नमः । ॐ महापातकनाशिन्यै नमः । ॐ महामायायै नमः । ॐ महासत्वायै नमः । ॐ महाशक्त्यै नमः । ॐ महारत्यै नमः । ॐ महाभोगायै नमः । ॐ महैश्वर्यायै नमः ॥ २२० ॥ ॐ महावीर्यायै नमः । ॐ महाबलायै नमः । ॐ महाबुद्ध्यै नमः । ॐ महासिद्ध्यै नमः । ॐ महायोगेश्वरेश्वर्यै नमः । ॐ महातन्त्रायै नमः । ॐ महामन्त्रायै नमः । ॐ महायन्त्रायै नमः । ॐ महासनायै नमः । ॐ महायागक्रमाराध्यायै नमः ॥ २३० ॥ ॐ महाभैरवपूजितायै नमः । ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः । ॐ महाकामेशमहिष्यै नमः । ॐ महात्रिपुरसुन्दर्यै नमः । ॐ चतुःषष्ट्युपचाराढ्यायै नमः । ॐ चतुःषष्टिकलामय्यै नमः । ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः । ॐ मनुविद्यायै नमः । ॐ चन्द्रविद्यायै नमः । ॐ चन्द्रमण्डलमध्यगायै नमः ॥ २४० ॥ ॐ चारुरूपायै नमः । ॐ चारुहासायै नमः । ॐ चारुचन्द्रकलाधरायै नमः । ॐ चराचरजगन्नाथायै नमः । ॐ चक्रराजनिकेतनायै नमः । ॐ पार्वत्यै नमः । ॐ पद्मनयनायै नमः । ॐ पद्मरागसमप्रभायै नमः । ॐ पञ्चप्रेतासनासीनायै नमः । ॐ पञ्चब्रह्मस्वरूपिण्यै नमः ॥ २५० ॥ ॐ चिन्मय्यै नमः । ॐ परमानन्दायै नमः । ॐ विज्ञानघनरूपिण्यै नमः । ॐ ध्यानध्यातृध्येयरूपायै नमः । ॐ धर्माधर्मविवर्जितायै नमः । ॐ विश्वरूपायै नमः । ॐ जागरिण्यै नमः । ॐ स्वपत्न्यै नमः । ॐ तैजसात्मिकायै नमः । ॐ सुप्तायै नमः ॥ २६० ॥ ॐ प्राज्ञात्मिकायै नमः । ॐ तुर्यायै नमः । ॐ सर्वावस्थाविवर्जितायै नमः । ॐ सृष्टिकर्त्र्यै नमः । ॐ ब्रह्मरूपायै नमः । ॐ गोप्त्र्यै नमः । ॐ गोविन्दरूपिण्यै नमः । ॐ संहारिण्यै नमः । ॐ रुद्ररूपायै नमः । ॐ तिरोधानकर्यै नमः ॥ २७० ॥ ॐ ईश्वर्यै नमः । ॐ सदाशिवायै नमः । ॐ अनुग्रहदायै नमः । ॐ पञ्चकृत्यपरायणायै नमः । ॐ भानुमण्डलमध्यस्थायै नमः । ॐ भैरव्यै नमः । ॐ भगमालिन्यै नमः । ॐ पद्मासनायै नमः । ॐ भगवत्यै नमः । ॐ पद्मनाभसहोदर्यै नमः ॥ २८० ॥ ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः । ॐ सहस्रशीर्षवदनायै नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रपदे नमः । ॐ आब्रह्मकीटजनन्यै नमः । ॐ वर्णाश्रमविधायिन्यै नमः । ॐ निजाज्ञारूपनिगमायै नमः । ॐ पुण्यापुण्यफलप्रदायै नमः । ॐ श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः । ॐ सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः ॥ २९० ॥ ॐ पुरुषार्थप्रदायै नमः । ॐ पूर्णायै नमः । ॐ भोगिन्यै नमः । ॐ भुवनेश्वर्यै नमः । ॐ अम्बिकायै नमः । ॐ अनादिनिधनायै नमः । ॐ हरिब्रह्मेन्द्रसेवितायै नमः । ॐ नारायण्यै नमः । ॐ नादरूपायै नमः । ॐ नामरूपविवर्जितायै नमः ॥ ३०० ॥ ॐ ह्रीङ्कार्यै नमः । ॐ ह्रीमत्यै नमः । ॐ हृद्यायै नमः । ॐ हेयोपादेयवर्जितायै नमः । ॐ राजराजार्चितायै नमः । ॐ राज्ञै नमः । ॐ रम्यायै नमः । ॐ राजीवलोचनायै नमः । ॐ रञ्जन्यै नमः । ॐ रमण्यै नमः ॥ ३१० ॥ ॐ रस्यायै नमः । ॐ रणत्किङ्किणिमेखलायै नमः । ॐ रमायै नमः । ॐ राकेन्दुवदनायै नमः । ॐ रतिरूपायै नमः । ॐ रतिप्रियायै नमः । ॐ रक्षाकर्यै नमः । ॐ राक्षसघ्न्यै नमः । ॐ रामायै नमः । ॐ रमणलम्पटायै नमः ॥ ३२० ॥ ॐ काम्यायै नमः । ॐ कामकलारूपायै नमः । ॐ कदम्बकुसुमप्रियायै नमः । ॐ कल्याण्यै नमः । ॐ जगतीकन्दायै नमः । ॐ करुणारससागरायै नमः । ॐ कलावत्यै नमः । ॐ कलालापायै नमः । ॐ कान्तायै नमः । ॐ कादम्बरीप्रियायै नमः ॥ ३३० ॥ ॐ वरदायै नमः । ॐ वामनयनायै नमः । ॐ वारुणीमदविह्वलायै नमः । ॐ विश्वाधिकायै नमः । ॐ वेदवेद्यायै नमः । ॐ विन्ध्याचलनिवासिन्यै नमः । ॐ विधात्र्यै नमः । ॐ वेदजनन्यै नमः । ॐ विष्णुमायायै नमः । ॐ विलासिन्यै नमः ॥ ३४० ॥ ॐ क्षेत्रस्वरूपायै नमः । ॐ क्षेत्रेश्यै नमः । ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः । ॐ क्षयवृद्धिविनिर्मुक्तायै नमः । ॐ क्षेत्रपालसमर्चितायै नमः । ॐ विजयायै नमः । ॐ विमलायै नमः । ॐ वन्द्यायै नमः । ॐ वन्दारुजनवत्सलायै नमः । ॐ वाग्वादिन्यै नमः ॥ ३५० ॥ ॐ वामकेश्यै नमः । ॐ वह्निमण्डलवासिन्यै नमः । ॐ भक्तिमत्कल्पलतिकायै नमः । ॐ पशुपाशविमोचिन्यै नमः । ॐ संहृताशेषपाषण्डायै नमः । ॐ सदाचारप्रवर्तिकायै नमः । ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः । ॐ तरुण्यै नमः । ॐ तापसाराध्यायै नमः । ॐ तनुमध्यायै नमः ॥ ३६० ॥ ॐ तमोपहायै नमः । ॐ चित्यै नमः । ॐ तत्पदलक्ष्यार्थायै नमः । ॐ चिदेकरसरूपिण्यै नमः । ॐ स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्तत्यै नमः । ॐ परायै नमः । ॐ प्रत्यक् चितीरूपायै नमः । ॐ पश्यन्त्यै नमः । ॐ परदेवतायै नमः । ॐ मध्यमायै नमः ॥ ३७० ॥ ॐ वैखरीरूपायै नमः । ॐ भक्तमानसहंसिकायै नमः । ॐ कामेश्वरप्राणनाड्यै नमः । ॐ कृतज्ञायै नमः । ॐ कामपूजितायै नमः । ॐ शृङ्गाररससम्पूर्णायै नमः । ॐ जयायै नमः । ॐ जालन्धरस्थितायै नमः । ॐ ओड्याणपीठनिलयायै नमः । ॐ बिन्दुमण्डलवासिन्यै नमः ॥ ३८० ॥ ॐ रहोयागक्रमाराध्यायै नमः । ॐ रहस्तर्पणतर्पितायै नमः । ॐ सद्यः प्रसादिन्यै नमः । ॐ विश्वसाक्षिण्यै नमः । ॐ साक्षिवर्जितायै नमः । ॐ षडङ्गदेवतायुक्तायै नमः । ॐ षाड्गुण्यपरिपूरितायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ निरुपमायै नमः । ॐ निर्वाणसुखदायिन्यै नमः ॥ ३९० ॥ ॐ नित्याषोडशिकारूपायै नमः । ॐ श्रीकण्ठार्धशरीरिण्यै नमः । ॐ प्रभावत्यै नमः । ॐ प्रभारूपायै नमः । ॐ प्रसिद्धायै नमः । ॐ परमेश्वर्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्ताव्यक्तस्वरूपिण्यै नमः । ॐ व्यापिन्यै नमः ॥ ४०० ॥ ॐ विविधाकारायै नमः । ॐ विद्याविद्यास्वरूपिण्यै नमः । ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः । ॐ भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः । ॐ शिवदूत्यै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवमूर्त्यै नमः । ॐ शिवङ्कर्यै नमः । ॐ शिवप्रियायै नमः । ॐ शिवपरायै नमः ॥ ४१० ॥ ॐ शिष्टेष्टायै नमः । ॐ शिष्टपूजितायै नमः । ॐ अप्रमेयायै नमः । ॐ स्वप्रकाशायै नमः । ॐ मनोवाचामगोचरायै नमः । ॐ चिच्छक्त्यै नमः । ॐ चेतनारूपायै नमः । ॐ जडशक्त्यै नमः । ॐ जडात्मिकायै नमः । ॐ गायत्र्यै नमः ॥ ४२० ॥ ॐ व्याहृत्यै नमः । ॐ सन्ध्यायै नमः । ॐ द्विजवृन्दनिषेवितायै नमः । ॐ तत्त्वासनायै नमः । ॐ तस्मै नमः । ॐ तुभ्यं नमः । ॐ अय्यै नमः । ॐ पञ्चकोशान्तरस्थितायै नमः । ॐ निःसीममहिम्ने नमः । ॐ नित्ययौवनायै नमः ॥ ४३० ॥ ॐ मदशालिन्यै नमः । ॐ मदघूर्णितरक्ताक्ष्यै नमः । ॐ मदपाटलगण्डभुवे नमः । ॐ चन्दनद्रवदिग्धाङ्ग्यै नमः । ॐ चाम्पेयकुसुमप्रियायै नमः । ॐ कुशलायै नमः । ॐ कोमलाकारायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुलकुण्डालयायै नमः ॥ ४४० ॥ ॐ कौलमार्गतत्परसेवितायै नमः । ॐ कुमारगणनाथाम्बायै नमः । ॐ तुष्ट्यै नमः । ॐ पुष्ट्यै नमः । ॐ मत्यै नमः । ॐ धृत्यै नमः । ॐ शान्त्यै नमः । ॐ स्वस्तिमत्यै नमः । ॐ कान्त्यै नमः । ॐ नन्दिन्यै नमः ॥ ४५० ॥ ॐ विघ्ननाशिन्यै नमः । ॐ तेजोवत्यै नमः । ॐ त्रिनयनायै नमः । ॐ लोलाक्षीकामरूपिण्यै नमः । ॐ मालिन्यै नमः । ॐ हंसिन्यै नमः । ॐ मात्रे नमः । ॐ मलयाचलवासिन्यै नमः । ॐ सुमुख्यै नमः । ॐ नलिन्यै नमः ॥ ४६० ॥ ॐ सुभ्रुवे नमः । ॐ शोभनायै नमः । ॐ सुरनायिकायै नमः । ॐ कालकण्ठ्यै नमः । ॐ कान्तिमत्यै नमः । ॐ क्षोभिण्यै नमः । ॐ सूक्ष्मरूपिण्यै नमः । ॐ वज्रेश्वर्यै नमः । ॐ वामदेव्यै नमः । ॐ वयोऽवस्थाविवर्जितायै नमः ॥ ४७० ॥ ॐ सिद्धेश्वर्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ सिद्धमात्रे नमः । ॐ यशस्विन्यै नमः । ॐ विशुद्धिचक्रनिलयायै नमः । ॐ आरक्तवर्णायै नमः । ॐ त्रिलोचनायै नमः । ॐ खट्वाङ्गादिप्रहरणायै नमः । ॐ वदनैकसमन्वितायै नमः । ॐ पायसान्नप्रियायै नमः ॥ ४८० ॥ ॐ त्वक्स्थायै नमः । ॐ पशुलोकभयङ्कर्यै नमः । ॐ अमृतादिमहाशक्तिसंवृतायै नमः । ॐ डाकिनीश्वर्यै नमः । ॐ अनाहताब्जनिलयायै नमः । ॐ श्यामाभायै नमः । ॐ वदनद्वयायै नमः । ॐ दंष्ट्रोज्वलायै नमः । ॐ अक्षमालादिधरायै नमः । ॐ रुधिरसंस्थितायै नमः ॥ ४९० ॥ ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः । ॐ स्निग्धौदनप्रियायै नमः । ॐ महावीरेन्द्रवरदायै नमः । ॐ राकिण्यम्बास्वरूपिण्यै नमः । ॐ मणिपूराब्जनिलयायै नमः । ॐ वदनत्रयसंयुतायै नमः । ॐ वज्राधिकायुधोपेतायै नमः । ॐ डामर्यादिभिरावृतायै नमः । ॐ रक्तवर्णायै नमः । ॐ मांसनिष्ठायै नमः ॥ ५०० ॥ ॐ गुडान्नप्रीतमानसायै नमः । ॐ समस्तभक्तसुखदायै नमः । ॐ लाकिन्यम्बास्वरूपिण्यै नमः । ॐ स्वाधिष्ठानाम्बुजगतायै नमः । ॐ चतुर्वक्त्रमनोहरायै नमः । ॐ शूलाद्यायुधसम्पन्नायै नमः । ॐ पीतवर्णायै नमः । ॐ अतिगर्वितायै नमः । ॐ मेदोनिष्ठायै नमः । ॐ मधुप्रीतायै नमः ॥ ५१० ॥ ॐ बन्दिन्यादिसमन्वितायै नमः । ॐ दध्यन्नासक्तहृदयायै नमः । ॐ काकिनीरूपधारिण्यै नमः । ॐ मूलाधाराम्बुजारूढायै नमः । ॐ पञ्चवक्त्रायै नमः । ॐ अस्थिसंस्थितायै नमः । ॐ अङ्कुशादिप्रहरणायै नमः । ॐ वरदादि निषेवितायै नमः । ॐ मुद्गौदनासक्तचित्तायै नमः । ॐ साकिन्यम्बास्वरूपिण्यै नमः ॥ ५२० ॥ ॐ आज्ञाचक्राब्जनिलायै नमः । ॐ शुक्लवर्णायै नमः । ॐ षडाननायै नमः । ॐ मज्जासंस्थायै नमः । ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः । ॐ हरिद्रान्नैकरसिकायै नमः । ॐ हाकिनीरूपधारिण्यै नमः । ॐ सहस्रदलपद्मस्थायै नमः । ॐ सर्ववर्णोपशोभितायै नमः । ॐ सर्वायुधधरायै नमः ॥ ५३० ॥ ॐ शुक्लसंस्थितायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ सर्वौदनप्रीतचित्तायै नमः । ॐ याकिन्यम्बास्वरूपिण्यै नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ अमत्यै नमः । ॐ मेधायै नमः । ॐ श्रुत्यै नमः । ॐ स्मृत्यै नमः ॥ ५४० ॥ ॐ अनुत्तमायै नमः । ॐ पुण्यकीर्त्यै नमः । ॐ पुण्यलभ्यायै नमः । ॐ पुण्यश्रवणकीर्तनायै नमः । ॐ पुलोमजार्चितायै नमः । ॐ बन्धमोचन्यै नमः । ॐ बर्बरालकायै नमः । ॐ विमर्शरूपिण्यै नमः । ॐ विद्यायै नमः । ॐ वियदादिजगत्प्रसुवे नमः ॥ ५५० ॥ ॐ सर्व व्याधिप्रशमन्यै नमः । ॐ सर्व मृत्युनिवारिण्यै नमः । ॐ अग्रगण्यायै नमः । ॐ अचिन्त्यरूपायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ कालहन्त्र्यै नमः । ॐ कमलाक्षनिषेवितायै नमः । ॐ ताम्बूलपूरितमुख्यै नमः । ॐ दाडिमीकुसुमप्रभायै नमः ॥ ५६० ॥ ॐ मृगाक्ष्यै नमः । ॐ मोहिन्यै नमः । ॐ मुख्यायै नमः । ॐ मृडान्यै नमः । ॐ मित्ररूपिण्यै नमः । ॐ नित्यतृप्तायै नमः । ॐ भक्तनिधये नमः । ॐ नियन्त्र्यै नमः । ॐ निखिलेश्वर्यै नमः । ॐ मैत्र्यादिवासनालभ्यायै नमः ॥ ५७० ॥ ॐ महाप्रलयसाक्षिण्यै नमः । ॐ पराशक्त्यै नमः । ॐ परानिष्ठायै नमः । ॐ प्रज्ञानघनरूपिण्यै नमः । ॐ माध्वीपानालसायै नमः । ॐ मत्तायै नमः । ॐ मातृकावर्ण रूपिण्यै नमः । ॐ महाकैलासनिलयायै नमः । ॐ मृणालमृदुदोर्लतायै नमः । ॐ महनीयायै नमः ॥ ५८० ॥ ॐ दयामूर्त्यै नमः । ॐ महासाम्राज्यशालिन्यै नमः । ॐ आत्मविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ श्रीविद्यायै नमः । ॐ कामसेवितायै नमः । ॐ श्रीषोडशाक्षरीविद्यायै नमः । ॐ त्रिकूटायै नमः । ॐ कामकोटिकायै नमः । ॐ कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः ॥ ५९० ॥ ॐ शिरःस्थितायै नमः । ॐ चन्द्रनिभायै नमः । ॐ भालस्थायै नमः । ॐ इन्द्रधनुःप्रभायै नमः । ॐ हृदयस्थायै नमः । ॐ रविप्रख्यायै नमः । ॐ त्रिकोणान्तरदीपिकायै नमः । ॐ दाक्षायण्यै नमः । ॐ दैत्यहन्त्र्यै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः ॥ ६०० ॥ ॐ दरान्दोलितदीर्घाक्ष्यै नमः । ॐ दरहासोज्ज्वलन्मुख्यै नमः । ॐ गुरुमूर्तये नमः । ॐ गुणनिधये नमः । ॐ गोमात्रे नमः । ॐ गुहजन्मभुवे नमः । ॐ देवेश्यै नमः । ॐ दण्डनीतिस्थायै नमः । ॐ दहराकाशरूपिण्यै नमः । ॐ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः ॥ ६१० ॥ ॐ कलात्मिकायै नमः । ॐ कलानाथायै नमः । ॐ काव्यालापविनोदिन्यै नमः । ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः । ॐ आदिशक्तयै नमः । ॐ अमेयायै नमः । ॐ आत्मने नमः । ॐ परमायै नमः । ॐ पावनाकृतये नमः । ॐ अनेककोटिब्रह्माण्डजनन्यै नमः ॥ ६२० ॥ ॐ दिव्यविग्रहायै नमः । ॐ क्लीङ्कार्यै नमः । ॐ केवलायै नमः । ॐ गुह्यायै नमः । ॐ कैवल्यपददायिन्यै नमः । ॐ त्रिपुरायै नमः । ॐ त्रिजगद्वन्द्यायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिदशेश्वर्यै नमः । ॐ त्र्यक्षर्यै नमः ॥ ६३० ॥ ॐ दिव्यगन्धाढ्यायै नमः । ॐ सिन्दूरतिलकाञ्चितायै नमः । ॐ उमायै नमः । ॐ शैलेन्द्रतनयायै नमः । ॐ गौर्यै नमः । ॐ गन्धर्वसेवितायै नमः । ॐ विश्वगर्भायै नमः । ॐ स्वर्णगर्भायै नमः । ॐ अवरदायै नमः । ॐ वागधीश्वर्यै नमः ॥ ६४० ॥ ॐ ध्यानगम्यायै नमः । ॐ अपरिच्छेद्यायै नमः । ॐ ज्ञानदायै नमः । ॐ ज्ञानविग्रहायै नमः । ॐ सर्ववेदान्तसंवेद्यायै नमः । ॐ सत्यानन्दस्वरूपिण्यै नमः । ॐ लोपामुद्रार्चितायै नमः । ॐ लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः । ॐ अदृश्यायै नमः । ॐ दृश्यरहितायै नमः ॥ ६५० ॥ ॐ विज्ञात्र्यै नमः । ॐ वेद्यवर्जितायै नमः । ॐ योगिन्यै नमः । ॐ योगदायै नमः । ॐ योग्यायै नमः । ॐ योगानन्दायै नमः । ॐ युगन्धरायै नमः । ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः । ॐ सर्वाधारायै नमः । ॐ सुप्रतिष्ठायै नमः ॥ ६६० ॥ ॐ सदसद्रूपधारिण्यै नमः । ॐ अष्टमूर्त्यै नमः । ॐ अजाजैत्र्यै नमः । ॐ लोकयात्राविधायिन्यै नमः । ॐ एकाकिन्यै नमः । ॐ भूमरूपायै नमः । ॐ निद्वैतायै नमः । ॐ द्वैतवर्जितायै नमः । ॐ अन्नदायै नमः । ॐ वसुदायै नमः ॥ ६७० ॥ ॐ वृद्धायै नमः । ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः । ॐ बृहत्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ ब्राह्म्यै नमः । ॐ ब्रह्मानन्दायै नमः । ॐ बलिप्रियायै नमः । ॐ भाषारूपायै नमः । ॐ बृहत्सेनायै नमः । ॐ भावाभावविर्जितायै नमः ॥ ६८० ॥ ॐ सुखाराध्यायै नमः । ॐ शुभकर्यै नमः । ॐ शोभनासुलभागत्यै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राज्यदायिन्यै नमः । ॐ राज्यवल्लभायै नमः । ॐ राजत्कृपायै नमः । ॐ राजपीठनिवेशितनिजाश्रितायै नमः । ॐ राज्यलक्ष्म्यै नमः । ॐ कोशनाथायै नमः ॥ ६९० ॥ ॐ चतुरङ्गबलेश्वर्यै नमः । ॐ साम्राज्यदायिन्यै नमः । ॐ सत्यसन्धायै नमः । ॐ सागरमेखलायै नमः । ॐ दीक्षितायै नमः । ॐ दैत्यशमन्यै नमः । ॐ सर्वलोकवंशकर्यै नमः । ॐ सर्वार्थदात्र्यै नमः । ॐ सावित्र्यै नमः । ॐ सच्चिदानन्दरूपिण्यै नमः ॥ ७०० ॥ ॐ देशकालापरिच्छिन्नायै नमः । ॐ सर्वगायै नमः । ॐ सर्वमोहिन्यै नमः । ॐ सरस्वत्यै नमः । ॐ शास्त्रमय्यै नमः । ॐ गुहाम्बायै नमः । ॐ गुह्यरूपिण्यै नमः । ॐ सर्वोपाधिविनिर्मुक्तायै नमः । ॐ सदाशिवपतिव्रतायै नमः । ॐ सम्प्रदायेश्वर्यै नमः ॥ ७१० ॥ ॐ साधुने नमः । ॐ यै नमः । ॐ गुरुमण्डलरूपिण्यै नमः । ॐ कुलोत्तीर्णायै नमः । ॐ भगाराध्यायै नमः । ॐ मायायै नमः । ॐ मधुमत्यै नमः । ॐ मह्यै नमः । ॐ गणाम्बायै नमः । ॐ गुह्यकाराध्यायै नमः ॥ ७२० ॥ ॐ कोमलाङ्ग्यै नमः । ॐ गुरुप्रियायै नमः । ॐ स्वतन्त्रायै नमः । ॐ सर्वतन्त्रेश्यै नमः । ॐ दक्षिणामूर्तिरूपिण्यै नमः । ॐ सनकादिसमाराध्यायै नमः । ॐ शिवज्ञानप्रदायिन्यै नमः । ॐ चित्कलायै नमः । ॐ आनन्दकलिकायै नमः । ॐ प्रेमरूपायै नमः ॥ ७३० ॥ ॐ प्रियङ्कर्यै नमः । ॐ नामपारायणप्रीतायै नमः । ॐ नन्दिविद्यायै नमः । ॐ नटेश्वर्यै नमः । ॐ मिथ्याजगदधिष्ठानायै नमः । ॐ मुक्तिदायै नमः । ॐ मुक्तिरूपिण्यै नमः । ॐ लास्यप्रियायै नमः । ॐ लयकर्यै नमः । ॐ लज्जायै नमः ॥ ७४० ॥ ॐ रम्भादिवन्दितायै नमः । ॐ भवदावसुधावृष्ट्यै नमः । ॐ पापारण्यदवानलायै नमः । ॐ दौर्भाग्यतूलवातूलायै नमः । ॐ जराध्वान्तरविप्रभायै नमः । ॐ भाग्याब्धिचन्द्रिकायै नमः । ॐ भक्तचित्तकेकिघनाघनायै नमः । ॐ रोगपर्वतदम्भोलये नमः । ॐ मृत्युदारुकुठारिकायै नमः । ॐ महेश्वर्यै नमः ॥ ७५० ॥ ॐ महाकाल्यै नमः । ॐ महाग्रासायै नमः । ॐ महाशनायै नमः । ॐ अपर्णायै नमः । ॐ चण्डिकायै नमः । ॐ चण्डमुण्डासुरनिषूदिन्यै नमः । ॐ क्षराक्षरात्मिकायै नमः । ॐ सर्वलोकेश्यै नमः । ॐ विश्वधारिण्यै नमः । ॐ त्रिवर्गदात्र्यै नमः ॥ ७६० ॥ ॐ सुभगायै नमः । ॐ त्र्यम्बकायै नमः । ॐ त्रिगुणात्मिकायै नमः । ॐ स्वर्गापवर्गदायै नमः । ॐ शुद्धायै नमः । ॐ जपापुष्पनिभाकृतये नमः । ॐ ओजोवत्यै नमः । ॐ द्युतिधरायै नमः । ॐ यज्ञरूपायै नमः । ॐ प्रियव्रतायै नमः ॥ ७७० ॥ ॐ दुराराध्यायै नमः । ॐ दुराधर्षायै नमः । ॐ पाटलीकुसुमप्रियायै नमः । ॐ महत्यै नमः । ॐ मेरुनिलयायै नमः । ॐ मन्दारकुसुमप्रियायै नमः । ॐ वीराराध्यायै नमः । ॐ विराड्रूपायै नमः । ॐ विरजसे नमः । ॐ विश्वतोमुख्यै नमः ॥ ७८० ॥ ॐ प्रत्यग्रूपायै नमः । ॐ पराकाशायै नमः । ॐ प्राणदायै नमः । ॐ प्राणरूपिण्यै नमः । ॐ मार्ताण्डभैरवाराध्यायै नमः । ॐ मन्त्रिणीन्यस्तराज्यधुरे नमः । ॐ त्रिपुरेश्यै नमः । ॐ जयत्सेनायै नमः । ॐ निस्त्रैगुण्यायै नमः । ॐ परापरायै नमः ॥ ७९० ॥ ॐ सत्यज्ञानानन्दरूपायै नमः । ॐ सामरस्यपरायणायै नमः । ॐ कपर्दिन्यै नमः । ॐ कलामालायै नमः । ॐ कामदुघे नमः । ॐ कामरूपिण्यै नमः । ॐ कलानिधये नमः । ॐ काव्यकलायै नमः । ॐ रसज्ञायै नमः । ॐ रसशेवधये नमः ॥ ८०० ॥ ॐ पुष्टायै नमः । ॐ पुरातनायै नमः । ॐ पूज्यायै नमः । ॐ पुष्करायै नमः । ॐ पुष्करेक्षणायै नमः । ॐ परस्मै ज्योतिषे नमः । ॐ परस्मै धाम्ने नमः । ॐ परमाणवे नमः । ॐ परात्परायै नमः । ॐ पाशहस्तायै नमः ॥ ८१० ॥ ॐ पाशहन्त्र्यै नमः । ॐ परमन्त्रविभेदिन्यै नमः । ॐ मूर्तायै नमः । ॐ अमूर्तायै नमः । ॐ अनित्यतृप्तायै नमः । ॐ मुनिमानसहंसिकायै नमः । ॐ सत्यव्रतायै नमः । ॐ सत्यरूपायै नमः । ॐ सर्वान्तर्यामिण्यै नमः । ॐ सत्यै नमः ॥ ८२० ॥ ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मणे नमः । ॐ जनन्यै नमः । ॐ बहुरूपायै नमः । ॐ बुधार्चितायै नमः । ॐ प्रसवित्र्यै नमः । ॐ प्रचण्डायै नमः । ॐ आज्ञायै नमः । ॐ प्रतिष्ठायै नमः । ॐ प्रकटाकृतये नमः ॥ ८३० ॥ ॐ प्राणेश्वर्यै नमः । ॐ प्राणदात्र्यै नमः । ॐ पञ्चाशत्पीठरूपिण्यै नमः । ॐ विशृङ्खलायै नमः । ॐ विविक्तस्थायै नमः । ॐ वीरमात्रे नमः । ॐ वियत्प्रसुवे नमः । ॐ मुकुन्दायै नमः । ॐ मुक्तिनिलयायै नमः । ॐ मूलविग्रहरूपिण्यै नमः ॥ ८४० ॥ ॐ भावज्ञायै नमः । ॐ भवरोगघ्न्यै नमः । ॐ भवचक्रप्रवर्तिन्यै नमः । ॐ छन्दःसारायै नमः । ॐ शास्त्रसारायै नमः । ॐ मन्त्रसारायै नमः । ॐ तलोदर्यै नमः । ॐ उदारकीर्तये नमः । ॐ उद्दामवैभवायै नमः । ॐ वर्णरूपिण्यै नमः ॥ ८५० ॥ ॐ जन्ममृत्युजरातप्तजन विश्रान्तिदायिन्यै नमः । ॐ सर्वोपनिषदुद् घुष्टायै नमः । ॐ शान्त्यतीतकलात्मिकायै नमः । ॐ गम्भीरायै नमः । ॐ गगनान्तस्थायै नमः । ॐ गर्वितायै नमः । ॐ गानलोलुपायै नमः । ॐ कल्पनारहितायै नमः । ॐ काष्ठायै नमः । ॐ अकान्तायै नमः ॥ ८६० ॥ ॐ कान्तार्धविग्रहायै नमः । ॐ कार्यकारणनिर्मुक्तायै नमः । ॐ कामकेलितरङ्गितायै नमः । ॐ कनत्कनकताटङ्कायै नमः । ॐ लीलाविग्रहधारिण्यै नमः । ॐ अजायै नमः । ॐ क्षयविनिर्मुक्तायै नमः । ॐ मुग्धायै नमः । ॐ क्षिप्रप्रसादिन्यै नमः । ॐ अन्तर्मुखसमाराध्यायै नमः ॥ ८७० ॥ ॐ बहिर्मुखसुदुर्लभायै नमः । ॐ त्रय्यै नमः । ॐ त्रिवर्गनिलयायै नमः । ॐ त्रिस्थायै नमः । ॐ त्रिपुरमालिन्यै नमः । ॐ निरामयायै नमः । ॐ निरालम्बायै नमः । ॐ स्वात्मारामायै नमः । ॐ सुधासृत्यै नमः । ॐ संसारपङ्कनिर्मग्न समुद्धरणपण्डितायै नमः ॥ ८८० ॥ ॐ यज्ञप्रियायै नमः । ॐ यज्ञकर्त्र्यै नमः । ॐ यजमानस्वरूपिण्यै नमः । ॐ धर्माधारायै नमः । ॐ धनाध्यक्षायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ विप्रप्रियायै नमः । ॐ विप्ररूपायै नमः । ॐ विश्वभ्रमणकारिण्यै नमः । ॐ विश्वग्रासायै नमः ॥ ८९० ॥ ॐ विद्रुमाभायै नमः । ॐ वैष्णव्यै नमः । ॐ विष्णुरूपिण्यै नमः । ॐ अयोन्यै नमः । ॐ योनिनिलयायै नमः । ॐ कूटस्थायै नमः । ॐ कुलरूपिण्यै नमः । ॐ वीरगोष्ठीप्रियायै नमः । ॐ वीरायै नमः । ॐ नैष्कर्म्यायै नमः ॥ ९०० ॥ ॐ नादरूपिण्यै नमः । ॐ विज्ञानकलनायै नमः । ॐ कल्यायै नमः । ॐ विदग्धायै नमः । ॐ बैन्दवासनायै नमः । ॐ तत्त्वाधिकायै नमः । ॐ तत्त्वमय्यै नमः । ॐ तत्त्वमर्थस्वरूपिण्यै नमः । ॐ सामगानप्रियायै नमः । ॐ सौम्यायै नमः ॥ ९१० ॥ ॐ सदाशिवकुटुम्बिन्यै नमः । ॐ सव्यापसव्यमार्गस्थायै नमः । ॐ सर्वापद्विनिवारिण्यै नमः । ॐ स्वस्थायै नमः । ॐ स्वभावमधुरायै नमः । ॐ धीरायै नमः । ॐ धीरसमर्चितायै नमः । ॐ चैतन्यार्घ्यसमाराध्यायै नमः । ॐ चैतन्यकुसुमप्रियायै नमः । ॐ सदोदितायै नमः ॥ ९२० ॥ ॐ सदातुष्टायै नमः । ॐ तरुणादित्यपाटलायै नमः । ॐ दक्षिणादक्षिणाराध्यायै नमः । ॐ दरस्मेरमुखाम्बुजायै नमः । ॐ कौलिनीकेवलायै नमः । ॐ अनर्घ्य कैवल्यपददायिन्यै नमः । ॐ स्तोत्रप्रियायै नमः । ॐ स्तुतिमत्यै नमः । ॐ श्रुतिसंस्तुतवैभवायै नमः । ॐ मनस्विन्यै नमः ॥ ९३० ॥ ॐ मानवत्यै नमः । ॐ महेश्यै नमः । ॐ मङ्गलाकृतये नमः । ॐ विश्वमात्रे नमः । ॐ जगद्धात्र्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ विरागिण्यै नमः । ॐ प्रगल्भायै नमः । ॐ परमोदारायै नमः । ॐ परामोदायै नमः ॥ ९४० ॥ ॐ मनोमय्यै नमः । ॐ व्योमकेश्यै नमः । ॐ विमानस्थायै नमः । ॐ वज्रिण्यै नमः । ॐ वामकेश्वर्यै नमः । ॐ पञ्चयज्ञप्रियायै नमः । ॐ पञ्चप्रेतमञ्चाधिशायिन्यै नमः । ॐ पञ्चम्यै नमः । ॐ पञ्चभूतेश्यै नमः । ॐ पञ्चसङ्ख्योपचारिण्यै नमः ॥ ९५० ॥ ॐ शाश्वत्यै नमः । ॐ शाश्वतैश्वर्यायै नमः । ॐ शर्मदायै नमः । ॐ शम्भुमोहिन्यै नमः । ॐ धरायै नमः । ॐ धरसुतायै नमः । ॐ धन्यायै नमः । ॐ धर्मिण्यै नमः । ॐ धर्मवर्धिन्यै नमः । ॐ लोकातीतायै नमः ॥ ९६० ॥ ॐ गुणातीतायै नमः । ॐ सर्वातीतायै नमः । ॐ शमात्मिकायै नमः । ॐ बन्धूककुसुमप्रख्यायै नमः । ॐ बालायै नमः । ॐ लीलाविनोदिन्यै नमः । ॐ सुमङ्गल्यै नमः । ॐ सुखकर्यै नमः । ॐ सुवेषाढ्यायै नमः । ॐ सुवासिन्यै नमः ॥ ९७० ॥ ॐ सुवासिन्यर्चनप्रीतायै नमः । ॐ आशोभनायै नमः । ॐ शुद्धमानसायै नमः । ॐ बिन्दुतर्पणसन्तुष्टायै नमः । ॐ पूर्वजायै नमः । ॐ त्रिपुराम्बिकायै नमः । ॐ दशमुद्रासमाराध्यायै नमः । ॐ त्रिपुराश्रीवशङ्कर्यै नमः । ॐ ज्ञानमुद्रायै नमः । ॐ ज्ञानगम्यायै नमः ॥ ९८० ॥ ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः । ॐ योनिमुद्रायै नमः । ॐ त्रिखण्डेश्यै नमः । ॐ त्रिगुणायै नमः । ॐ अम्बायै नमः । ॐ त्रिकोणगायै नमः । ॐ अनघायै नमः । ॐ अद्भुतचारित्रायै नमः । ॐ वाञ्छितार्थप्रदायिन्यै नमः । ॐ अभ्यासातिशयज्ञातायै नमः ॥ ९९० ॥ ॐ षडध्वातीतरूपिण्यै नमः । ॐ अव्याजकरुणामूर्तये नमः । ॐ अज्ञानध्वान्तदीपिकायै नमः । ॐ आबालगोपविदितायै नमः । ॐ सर्वानुल्लङ्घ्यशासनायै नमः । ॐ श्रीचक्रराजनिलयायै नमः । ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः । ॐ श्रीशिवायै नमः । ॐ शिवशक्त्यैक्यरूपिण्यै नमः । ॐ ललिताम्बिकायै नमः ॥ १००० ॥ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरभागे श्रीललितासहस्रनामावली सम्पूर्णा ॥
முந்தைய
108 சூர்யா (அஷ்டோட்டரா சத்னமாவலி) பெயர்கள்
Back to Namavali collection
Lalita Sahasranama — 1000 Names of Goddess Lalita (Namavali format) — Lyrics in Hindi & English | Panchang