॥ श्री रुद्रम् ॥
नमस्ते रुद्र मन्यव उतो त इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभि चाकशीहि ॥
ॐ नमः सोमाय च रुद्राय च ।
नमस्ताम्राय चारुणाय च ।
नमः शङ्गाय च पशुपतये च ।
नमः उग्राय च भीमाय च ।
नमः अग्रेवधाय च दूरेवधाय च ।
नमः हन्त्रे च हनीयसे च ।
नमः वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ।
नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च ।
नमः शिवाय च शिवतराय च ॥
॥ चमकम् ॥
ॐ अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।
द्युम्नैर्वाजेभिरागतम् ।
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे असुश्च मे चित्तं च म आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूँषि च मे शरीराणि च मे ॥
॥ इति श्री रुद्रम् चमकम् ॥