Skip to main content
ॐ
VedPanchang
Accurate Vedic Astrology
Panchang
Calendar
Muhurat
Festivals
Rashifal
More
Home
›
Devotional
›
Mantra
›
Navagraha Stotram (9 Planet Mantras — Full)
Navagraha Stotram (9 Planet Mantras — Full)
The Nine Planets (Navagraha)
Devanagari
Transliteration
English Meaning
Copy
॥ नवग्रह स्तोत्रम् ॥ (१) सूर्य (Sun): जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ (२) चन्द्र (Moon): दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ (३) मङ्गल (Mars): धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ (४) बुध (Mercury): प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ (५) बृहस्पति (Jupiter): देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ (६) शुक्र (Venus): हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ (७) शनि (Saturn): नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥ (८) राहु (North Node): अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥ (९) केतु (South Node): पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ॥ इति व्यासोक्तं नवग्रह स्तोत्रम् ॥
Previous
Saraswati Bija Mantra
Next
Hanuman Beej Mantra
Back to Mantra collection
Navagraha Stotram (9 Planet Mantras — Full) — Lyrics in Hindi & English | Panchang