മുഖ്യ ഉള്ളടക്കത്തിലേക്ക് പോകുക
ॐ
VedPanchang
കൃത്യമായ വൈദിക ജ്യോതിഷം
ഹോം
പഞ്ചാംഗം
കലണ്ടർ
മുഹൂർത്തം
ഉത്സവങ്ങൾ
രാശിഫലം
വ്രതം
യോഗങ്ങൾ
ഗ്രഹങ്ങൾ
ജ്യോതിഷം
ദേവതകൾ
പൂജാ വിധി
ഭക്തി
ഹോം
›
ഭക്തി
›
Stotram
›
നാരായണ സുക്തം
നാരായണ സുക്തം
ഭഗവാൻ നരായണൻ (വിഷ്ണു)
ദേവനാഗരി
ലിപ്യന്തരണം
ഇംഗ്ലീഷ് അർത്ഥം
പകർത്തുക
॥ नारायण सूक्तम् ॥ ॐ सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् ॥ १ ॥ विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ २ ॥ पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ ३ ॥ नारायणपरो ज्योतिरात्मा नारायणः परः । नारायणपरं ब्रह्म तत्त्वं नारायणः परः ॥ ४ ॥ नारायणपरो ध्याता ध्यानं नारायणः परः । यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ ५ ॥ अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम् । पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् ॥ ६ ॥ अधो निष्ठ्या विजृम्भिते नाभ्यामुपरि तिष्ठति । ज्वालामालाकुलं भाति विश्वस्यायतनं महत् ॥ ७ ॥ सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥ ८ ॥ तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः । सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ॥ ९ ॥ तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तता । सन्तापयति स्वं देहमापादतलमास्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥ १० ॥ ॥ इति नारायण सूक्तम् ॥
മുമ്പത്തെ
ദുര് ഗ സുക്തം
അടുത്തത്
ശിവ മഹിംന സ്റ്റോത്രാം (തുറക്കം)
Back to Stotram collection
നാരായണ സുക്തം — Lyrics in Hindi & English | Panchang