ಮುಖ್ಯ ವಿಷಯಕ್ಕೆ ಹೋಗಿ
ॐ
VedPanchang
ನಿಖರವಾದ ವೈದಿಕ ಜ್ಯೋತಿಷ
ಮುಖಪುಟ
ಪಂಚಾಂಗ
ಕ್ಯಾಲೆಂಡರ್
ಮುಹೂರ್ತ
ಹಬ್ಬಗಳು
ರಾಶಿಫಲ
ವ್ರತ
ಯೋಗಗಳು
ಗ್ರಹಗಳು
ಜ್ಯೋತಿಷ
ದೇವತೆಗಳು
ಪೂಜಾ ವಿಧಿ
ಭಕ್ತಿ
108 ಕೃಷ್ಣನ ಹೆಸರುಗಳು (ಅಷ್ಟೋಟಾರ ಸತಾನಮಾವಾಲಿ) — Lyrics in Hindi & English | Panchang
ಮುಖಪುಟ
›
ಭಕ್ತಿ
›
Namavali
›
108 ಕೃಷ್ಣನ ಹೆಸರುಗಳು (ಅಷ್ಟೋಟಾರ ಸತಾನಮಾವಾಲಿ)
108 ಕೃಷ್ಣನ ಹೆಸರುಗಳು (ಅಷ್ಟೋಟಾರ ಸತಾನಮಾವಾಲಿ)
ಕೃಷ್ಣ
ದೇವನಾಗರಿ
ಲಿಪ್ಯಂತರಣ
ಇಂಗ್ಲಿಷ್ ಅರ್ಥ
ನಕಲಿಸಿ
॥ श्री कृष्ण अष्टोत्तर शतनामावली ॥ ॐ कृष्णाय नमः । ॐ कमलनाथाय नमः । ॐ वासुदेवाय नमः । ॐ सनातनाय नमः । ॐ वसुदेवात्मजाय नमः । ॐ पुण्याय नमः । ॐ लीलामानुषविग्रहाय नमः । ॐ श्रीवत्सकौस्तुभधराय नमः । ॐ यशोदावत्सलाय नमः । ॐ हरये नमः ॥ १० ॥ ॐ चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधाय नमः । ॐ देवकीनन्दनाय नमः । ॐ श्रीशाय नमः । ॐ नन्दगोपप्रियात्मजाय नमः । ॐ यमुनावेगसंहारिणे नमः । ॐ बलभद्रप्रियानुजाय नमः । ॐ पूतनाजीवितहराय नमः । ॐ शकटासुरभञ्जनाय नमः । ॐ नन्दव्रजजनानन्दिने नमः । ॐ सच्चिदानन्दविग्रहाय नमः ॥ २० ॥ ॐ नवनीतविलिप्ताङ्गाय नमः । ॐ नवनीतनटाय नमः । ॐ अनघाय नमः । ॐ नवनीतनवाहाराय नमः । ॐ मुचुकुन्दप्रसादकाय नमः । ॐ षोडशस्त्रीसहस्रेशाय नमः । ॐ त्रिभङ्गिने नमः । ॐ मधुराकृतये नमः । ॐ शुकवागमृताब्धीन्दवे नमः । ॐ गोविन्दाय नमः ॥ ३० ॥ ॐ योगिनाम्पतये नमः । ॐ वत्सवाटचराय नमः । ॐ अनन्ताय नमः । ॐ धेनुकासुरमर्दनाय नमः । ॐ तृणीकृततृणावर्ताय नमः । ॐ यमलार्जुनभञ्जनाय नमः । ॐ उत्तालतालभेत्रे नमः । ॐ तमालश्यामलाकृतये नमः । ॐ गोपगोपीश्वराय नमः । ॐ योगिने नमः ॥ ४० ॥ ॐ कोटिसूर्यसमप्रभाय नमः । ॐ इलापतये नमः । ॐ परस्मै ज्योतिषे नमः । ॐ यादवेन्द्राय नमः । ॐ यदूद्वहाय नमः । ॐ वनमालिने नमः । ॐ पीतवाससे नमः । ॐ पारिजातापहारकाय नमः । ॐ गोवर्धनाचलोद्धर्त्रे नमः । ॐ गोपालाय नमः ॥ ५० ॥ ॐ सर्वपालकाय नमः । ॐ अजाय नमः । ॐ निरञ्जनाय नमः । ॐ कामजनकाय नमः । ॐ कञ्जलोचनाय नमः । ॐ मधुघ्ने नमः । ॐ मथुरानाथाय नमः । ॐ द्वारकानायकाय नमः । ॐ बलिने नमः । ॐ वृन्दावनान्तसञ्चारिणे नमः ॥ ६० ॥ ॐ तुलसीदामभूषणाय नमः । ॐ शमन्तकमणेर्हर्त्रे नमः । ॐ नरनारायणात्मकाय नमः । ॐ कुब्जाकृष्टाम्बरधराय नमः । ॐ मायिने नमः । ॐ परमपूरुषाय नमः । ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः । ॐ संसारवैरिणे नमः । ॐ कंसारये नमः । ॐ मुरारये नमः ॥ ७० ॥ ॐ नराकान्ताकाय नमः । ॐ अनादिब्रह्मचारिणे नमः । ॐ कृष्णाव्यसनकर्शकाय नमः । ॐ शिशुपालशिरश्छेत्रे नमः । ॐ दुर्योधनकुलान्तकृते नमः । ॐ विदुराक्रूरवरदाय नमः । ॐ विश्वरूपप्रदर्शकाय नमः । ॐ सत्यवाचे नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यभामारताय नमः ॥ ८० ॥ ॐ जयिने नमः । ॐ सुभद्रापूर्वजाय नमः । ॐ विष्णवे नमः । ॐ भीष्ममुक्तिप्रदायकाय नमः । ॐ जगद्गुरवे नमः । ॐ जगन्नाथाय नमः । ॐ वेणुनादविशारदाय नमः । ॐ वृषभासुरविध्वंसिने नमः । ॐ बाणासुरबलान्तकृते नमः । ॐ युधिष्ठिरप्रतिष्ठात्रे नमः ॥ ९० ॥ ॐ बर्हिबर्हावतंसकाय नमः । ॐ पार्थसारथये नमः । ॐ अव्यक्ताय नमः । ॐ गीतामृतमहोदधये नमः । ॐ कालियफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः । ॐ दामोदराय नमः । ॐ यज्ञभोक्त्रे नमः । ॐ दानवेन्द्रविनाशकाय नमः । ॐ नारायणाय नमः । ॐ परब्रह्मणे नमः ॥ १०० ॥ ॐ पन्नगाशनवाहनाय नमः । ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः । ॐ पुण्यश्लोकाय नमः । ॐ तीर्थकराय नमः । ॐ वेदवेद्याय नमः । ॐ दयानिधये नमः । ॐ सर्वभूतात्मकाय नमः । ॐ सर्वग्रहरूपिणे नमः । ॐ परात्पराय नमः ॥ १०८ ॥ ॥ इति श्री कृष्ण अष्टोत्तर शतनामावली सम्पूर्णा ॥
ಹಿಂದಿನ
108 ಹನುಮನ್ (ಅಷ್ಟೋಟಾರ ಷತಾನಮಾವಾಲಿ) ಹೆಸರುಗಳು
ಮುಂದೆ
108 ರಾಮನ ಹೆಸರುಗಳು (ಅಷ್ಟೋಟಾರ ಸತಾನಮಾವಾಲಿ)
Back to Namavali collection