মূল বিষয়বস্তুলৈ যাওক
ॐ
VedPanchang
সঠিক বৈদিক জ্যোতিষ
ঘৰ
পঞ্জিকা
কেলেণ্ডাৰ
মুহূৰ্ত
উৎসৱ
ৰাশিফল
ব্ৰত
যোগ
গ্ৰহ
জ্যোতিষ
দেৱতা
পূজা বিধি
ভক্তি
ঘৰ
›
ভক্তি
›
Stotram
›
ললিথা সাহসৰাণামা
ললিথা সাহসৰাণামা
দেৱী ললিতা ত্ৰিপুৰসুন্দৰী
দেৱনাগৰী
লিপ্যন্তৰ
ইংৰাজী অৰ্থ
কপি কৰক
मातः श्रीललिते प्रसीद ! लौहित्यनिर्जित जपाकुसुमानुरागां पाशाङ्कुशौ धनुरिषूनपि धारयन्तीम् । ताम्रेक्षणामरुणमाल्यविशेषभूषां ताम्बूलपूरितमुखीं त्रिपुरां नमामि ॥ १॥ मधुरान्मधुरा महितान्महिता मृदुलान्मृदुला सुलभात्सुलभा । अरुणादरुणा सदयात्सदया ललिताल्ललिता ललिताऽवतु माम् ॥ २॥ ललितं चरणसरोजे ललिततरं वदनशीतरुचिबिम्बे । ललिततमं स्मितरोचिषि ललिताख्यं वसतु मे पुरतः ॥ ३॥ त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः । त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ ४॥ त्वयार्जितमिदं सर्वं तव स्वं परमेश्वरि । त्वदधीनं करोमीह त्वदर्थे तन्नियोजये ॥ ५॥ तव देवि वशे वर्ते तवाज्ञामेव पालयन् । तव नामानि गणयन् त्वयि लीये गृहाण माम् ॥ ६॥ एषा भक्त्या तव विरचिता या देवि सेवा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७॥ श्रीललितासहस्रनामस्तोत्रम् (उपोद्धाताख्या प्रथमा कला) गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ २॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ ३॥ त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् । त्रिगुणैर्देवैर्विनुतामेकान्तां बिन्दुगां महारम्भाम् ॥ १॥ ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः । परिभाषा भाष्यन्ते सङ्क्षेपात्कौलिकप्रमोदाय ॥ २॥ पञ्चाशदेक आदौ नामसु सार्धद्व्यशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३॥ दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् । मुनिसूतहयाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४॥ अगस्त्य उवाच — अश्वानन महाबुद्धे सर्वशास्त्रविशारद । कथितं ललितादेव्याः चरितं परमाद्भुतम् ॥ १॥ पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् । भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २॥ वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३॥ षोढान्यासादयो देव्याः न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥ महायागाक्रमश्चापि पूजाखण्डे समीरिताः । पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५॥ होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः । चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ ६॥ रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् । स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७॥ मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके । न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८॥ तत्र मे संशयो जातो हयग्रीव दयानिधे । किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९॥ मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १०॥ सूत उवाच — इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना । प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११॥ श्रीहयग्रीव उवाच — लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु । नाम्रां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२॥ रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा । पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३॥ ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः । भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४॥ न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । श्रीमातृभक्तियुक्त्ताय श्रीविद्याराजवेदिने ॥ १५॥ उपासकाय शुद्धाय देयं नामसहस्रकम् । यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६॥ तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७॥ पुराणां श्रीपुरमिव शक्तीनां ललिता यथा । श्रीविद्योपासकानां च यथा देवः परः शिवः ॥ १८॥ तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् । यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९॥ अन्यनामसहस्रस्य पाठान्न प्रीयते तथा । श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २०॥ बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् । पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१॥ सदा प्रसादं कुरुते तस्य सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२॥ जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥ २३॥ साङ्गार्चने साङ्गजपे यत्फलं तदाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४॥ इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६॥ तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७॥ वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । देव्युवाच — वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८॥ भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९॥ मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३०॥ कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१॥ हयग्रीव उवाच — इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया । रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२॥ रहस्यं नामसाहस्रमिति तद्विश्रुतं परम् । ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३॥ स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव । सेवार्थमागतास्तत्र तु वाणीस्रष्टुकोटयः ॥ ३४॥ लक्ष्मीनारायणानां च कोटयः समुपागताः । गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५॥ मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यास्समागताः । शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ ३६॥ दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः । तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७॥ तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८॥ उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा । अस्तुवन्नामसाहस्रैः स्वकृतैर्लंलिताम्बिकाम् ॥ ३९॥ श्रुत्वा स्तवं प्रसन्नाऽभूल्ल्लिता परमेश्वरी । ते सर्वे विस्मयं जग्भुर्ये तत्र सदसि स्थिताः ॥ ४०॥ ततः प्रोवाच ललिता सदस्यान् देवतागणान् । ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१॥ अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः । तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२॥ प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३॥ स मे प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् । श्रीचक्रे मां सदाभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४॥ पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५॥ कीर्तयेन्नामसहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान् कामांल्लभते नात्र संशयः ॥ ४६॥ तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् । श्रीहयग्रीव उवाच — इति श्रीललितेशानी शास्ति देवान्सहानुगान् ॥ ४७॥ तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः । शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८॥ पठन्ति भक्त्या सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९॥ आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर । इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५०॥ इति ललितासहस्रनाम्न्युपोद्धातप्रकरणं समाप्तम् ॥ ॥ न्यासः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादयो वाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललिता परमेश्वरी देवता । श्रीमद्बाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । ध्यानम् । मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः । ॥ करन्यासः ॥ ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । सौः अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः । ॥ अङ्गन्यासः ॥ ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । सौः कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् । भूर्भवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सतत मभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्व सम्पत्प्रदात्रीम् ॥ सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ लमित्यादिपञ्चपूजा लं पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि । हं आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि । यं वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि । रं वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि । वं अमृततत्त्वामिकायै श्रीललितादेव्यै अमृतं महानैवेद्यं परिकल्पयामि । सं सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारपूजां परिकल्पयामि । (ततः पारायणं कुर्यात् ।) ॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥ (द्वितीया तापिनी कला १—१०० नामानि) श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १॥ उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता । रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥ मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा । कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४॥ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता । मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५॥ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका । वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६॥ नवचम्पकपुष्पाभनासादण्डविराजिता । ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७॥ कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा । ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८॥ पद्मरागशिलादर्शपरिभाविकपोलभूः । नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९॥ (दशनच्छदा) शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला । कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ १०॥ निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी । (निजसंलाप) मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११॥ अनाकलितसादृश्यचिबुकश्रीविराजिता । (चुबुकश्री) कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२॥ कनकाङ्गदकेयूरकमनीयभुजान्विता । रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३॥ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी । नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४॥ लक्ष्यरोमलताधारतासमुन्नेयमध्यमा । स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५॥ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी । रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६॥ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता । माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ १७॥ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका । गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८॥ नखदीधितिसञ्छन्ननमज्जनतमोगुणा । पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९॥ सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा । (शिञ्जान) मरालीमन्दगमना महालावण्यशेवधिः ॥ २०॥ सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता । शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१॥ सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका । चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२॥ महापद्माटवीसंस्था कदम्बवनवासिनी । सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३॥ देवर्षिगणसङ्घातस्तूयमानात्मवैभवा । भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४॥ सम्पत्करीसमारूढसिन्धुरव्रजसेविता । अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५॥ चक्रराजरथारूढसर्वायुधपरिष्कृता । गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६॥ किरिचक्ररथारूढदण्डनाथापुरस्कृता । ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७॥ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता । नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८॥ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता । मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९॥ (विशुक्रवधतोषिता) विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । (विषङ्गप्राणहरण) कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३०॥ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता । भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१॥ कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः । महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२॥ कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका । ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३॥ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः । श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४॥ कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी । शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५॥ मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा । कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६॥ कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । अकुला समयान्तस्था समयाचारतत्परा ॥ ३७॥ मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी । (तृतीया धूम्रिका कला १०१—२०० नामानि) मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥ आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी । सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९॥ तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता । महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४०॥ भवानी भावनागम्या भवारण्यकुठारिका । भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१॥ भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥ शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना । शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥ निर्लेपा निर्मला नित्या निराकारा निराकुला । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥ नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया । नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥ निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा । नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥ निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी । निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥ निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥ (निस्संशया) निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥ निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥ दुष्टदूरा दुराचारशमनी दोषवर्जिता । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१॥ (चतुर्थी मरीच्याख्या कला २०१—३०० नामानि) सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२॥ सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३॥ महारूपा महापूज्या महापातकनाशिनी । महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४॥ महाभोगा महैश्वर्या महावीर्या महाबला । महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५॥ महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६॥ महेश्वरमहाकल्पमहाताण्डवसाक्षिणी । महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७॥ चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८॥ मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९॥ चराचरजगन्नाथा चक्रराजनिकेतना । पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६०॥ पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१॥ ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता । विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥ सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता । सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥ संहारिणी रुद्ररूपा तिरोधानकरीश्वरी । सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४॥ भानुमण्डलमध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५॥ उन्मेषनिमिषोत्पन्नविपन्नभुवनावली । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥ आब्रह्मकीटजननी वर्णाश्रमविधायिनी । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७॥ श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८॥ पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९॥ नारायणी नादरूपा नामरूपविवर्जिता । (पञ्चमी ज्वालिनी कला ३०१—४०० नामानि) ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७०॥ राजराजार्चिता राज्ञी रम्या राजीवलोचना । रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१॥ रमा राकेन्दुवदना रतिरूपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥ काम्या कामकलारूपा कदम्बकुसुमप्रिया । कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३॥ कलावती कलालापा कान्ता कादम्बरीप्रिया । वरदा वामनयना वारुणीमदविह्वला ॥ ७४॥ विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी । विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥ क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी । क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६॥ विजया विमला वन्द्या वन्दारुजनवत्सला । वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७॥ भक्तिमत्कल्पलतिका पशुपाशविमोचिनी । संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८॥ (पाखण्डा) तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका । तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥ चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी । स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८०॥ परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता । मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१॥ कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता । शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२॥ ओड्याणपीठनिलया बिन्दुमण्डलवासिनी । रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३॥ सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४॥ नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५॥ प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६॥ (षष्ठी रुच्याख्या कला ४०१—५०० नामानि) व्यापिनी विविधाकारा विद्याविद्या—स्वरूपिणी । महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७॥ भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः । शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥ शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥ चिच्छक्तिश् चेतनारूपा जडशक्तिर्जडात्मिका । गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥ ९०॥ तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता । निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१॥ (निस्सीम) मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः । चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२॥ कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३॥ कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः । शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४॥ तेजोवती त्रिनयना लोलाक्षीकामरूपिणी । मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५॥ सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥ वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता । सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥ विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना । खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८॥ पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी । अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९॥ अनाहताब्जनिलया श्यामाभा वदनद्वया । दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १००॥ कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया । महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१॥ मणिपूराब्जनिलया वदनत्रयसंयुता । वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥ (सप्तमी सुषुम्णा कला ५०१—६०० नामानि) रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा । समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३॥ स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥ मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता । दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५॥ मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता । अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६॥ मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी । आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७॥ मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता । हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८॥ सहस्रदलपद्मस्था सर्ववर्णोपशोभिता । सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९॥ सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी । स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११०॥ पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना । पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११॥ (मोचनी बर्बरालका) विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः । सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२॥ अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी । कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३॥ ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा । मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥ नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी । मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५॥ परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी । माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६॥ महाकैलासनिलया मृणालमृदुदोर्लता । महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७॥ आत्मविद्या महाविद्या श्रीविद्या कामसेविता । श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८॥ कटाक्षकिङ्करीभूतकमलाकोटिसेविता । शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९॥ हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका । दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२०॥ (अष्टमी भोगदा कला ६०१—७०० नामानि) दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी । गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१॥ देवेशी दण्डनीतिस्था दहराकाशरूपिणी । प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२॥ कलात्मिका कलानाथा काव्यालापविनोदिनी । (विमोदिनी) सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३॥ आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः । अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४॥ क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी । त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५॥ त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता । उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६॥ विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी । ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥ सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी । लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ॥ १२८॥ अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी । सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३०॥ अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी । (अजाजेत्री) एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥ अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥ भाषारूपा बृहत्सेना भावाभावविवर्जिता । सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥ राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४॥ राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी । साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥ दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी । सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६॥ (नवमी विश्वा कला ७०१—८०० नामानि) देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥ सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता । सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८॥ कुलोत्तीर्णा भगाराध्या माया मधुमती मही । गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥ स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी । सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४०॥ चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी । नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥ मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी । लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥ भवदावसुधावृष्टिः पापारण्यदवानला । दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३॥ भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना । रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४॥ महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५॥ क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥ स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः । ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥ दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया । महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८॥ वीराराध्या विराड्रूपा विरजा विश्वतोमुखी । प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥ मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । (मार्तण्ड) त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥ सत्यज्ञानानन्दरूपा सामरस्यपरायणा । कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥ कलानिधिः काव्यकला रसज्ञा रसशेवधिः । (दशमी बोधिनी कला ८०१—९०० नामानि) पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥ परञ्ज्योतिः परन्धाम परमाणुः परात्परा । पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३॥ मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका । सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥ ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥ प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी । विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥ मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी । भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७॥ छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी । उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८॥ जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी । सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९॥ गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६०॥ कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता । कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१॥ अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी । अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२॥ त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी । निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥ (सुधास्रुतिः) संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४॥ धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५॥ विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी । अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥ (एकादशी धारिणी कला ९०१—१००० नामानि) वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी । विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥ तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी । सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८॥ (सोम्या) सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी । स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥ चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया । सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७०॥ दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा । कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१॥ स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा । मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥ विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥ व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४॥ पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी । शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥ धराधरसुता धन्या धर्मिणी धर्मवर्धिनी । लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥ बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी । सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥ सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा । बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥ दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी । ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९॥ योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा । अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८०॥ अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी । अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१॥ आबालगोपविदिता सर्वानुल्लङ्घ्यशासना । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२॥ श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका । एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥ ॥ इति श्रीब्रह्माण्ड पुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्रकथनं सम्पूर्णम् ॥ फलश्रुतिः (क्षमाख्या द्वादशी कला) इत्येतन्नामसाहस्रं कथितं ते घटोद्भव । रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १॥ अनेन सदृशं स्तोत्रं न भूतं न भविष्यति । सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २॥ सर्वापमृत्युशमनं कालमृत्युनिवारणम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३॥ पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् । इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४॥ जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः । प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५॥ पूजागृहं ततो गत्वा चक्रेराजं समर्चयेत् । विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ ६॥ रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः । जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७॥ तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव । गङ्गादि सर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ॥ ८॥ कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके । कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९॥ कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु । यः कोटिं हयमेधानामाहरेद् गाङ्गरोधसि ॥ १०॥ आचरेत्कूपकोटीर्यो निर्जले मरुभूतले । दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११॥ श्रद्धया परया कुर्यात्सहस्रोपरिवत्सरान् । तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम् ॥ १२॥ रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् । रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३॥ तस्य पापानि नश्यन्ति महान्त्यपि न संशयः । नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४॥ यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् । बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ॥ १५॥ अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने । तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६॥ यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति । स हि शीतनिवृत्यर्थं हिमशैले निषेवते ॥ १७॥ भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् । तस्मै श्रीलितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८॥ अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति । नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९॥ संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने । नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २०॥ कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः । पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१॥ पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् । सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ॥ २२॥ अयमायुष्करो नाम प्रयोगः कल्पचोदितः । ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३॥ तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च । सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४॥ तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् । जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५॥ अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात् । सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६॥ यः पठेन्नामसाहस्रं विषं तस्य विनश्यति । वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७॥ नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् । देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८॥ ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् । आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९॥ राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः । त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ॥ ३०॥ स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् । आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१॥ तस्मै राज्यं च कोशं च ददात्येव वशं गतः । रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२॥ तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने । यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३॥ तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः । यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४॥ निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५॥ तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः । धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६॥ यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् । विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७॥ तस्य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी । यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८॥ चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् । यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९॥ लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे । मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४०॥ भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः । यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१॥ मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् । यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२॥ तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः । यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३॥ अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन । श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४॥ यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः । तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५॥ न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः । पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६॥ परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः । श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७॥ देवता ललितातुल्या यथा नास्ति घटोद्भव । रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८॥ लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् । समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९॥ बहुनात्र किमुक्तेना शृणु त्वं कुम्भसम्भव । नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५०॥ तस्मादुपासको नित्यं कीर्तयेदिदमादरात् । एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१॥ पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः । चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ॥ ५२॥ उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः । अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३॥ तस्य पुण्यफलं वक्त्तुं न शक्नोति महेश्वरः । सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४॥ अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः । प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५॥ रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् । स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६॥ न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् । महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७॥ अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता । यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८॥ चक्रराजे महादेवीं तस्य पुण्यफलं शृणु । सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान्यथेप्सितान् । अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६०॥ प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः । यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१॥ समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः । तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२॥ न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते । निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३॥ ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् । धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४॥ विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् । नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५॥ कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः । चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६॥ स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये । कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७॥ नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम् । लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८॥ विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् । शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९॥ देवीनामसहस्राणि कोटिशः सन्ति कुम्भज । तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७०॥ गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती । राजराजेश्वरी बाला श्यामला ललिता दश ॥ ७१॥ रहस्यनामसाहस्रमिदं शस्तं दशस्वपि । तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७२॥ मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः । विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७३॥ न कश्चिदपि लोकेषु ललितानामतत्परः । येनान्य देवतानाम कीर्तितं जन्मकोटिषु ॥ ७४॥ तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने । चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७५॥ नामसाहस्रपाठश्च तथा चरमजन्मनि । यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७६॥ तथैव विरलो गुह्यनामसाहस्रपाठकः । मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७७॥ रहस्यनामपाठश्च नाल्पस्य तपसः फलम् । अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७८॥ स चक्षुषा विना रूपं पश्येदेव विमूढधीः । रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७९॥ स भोजनं विना नूनं क्षुन्—निवृत्तिमभीप्सति । यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ८०॥ नान्यथा प्रीयते देवी कल्पकोटिशतैरपि । तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८१॥ इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव । नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८२॥ यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने । पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८३॥ यो ददाति विमूढात्मा श्रीविद्यारहिताय च । तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥ ८४॥ रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् । स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ॥ ८५॥ ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् । तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८६॥ श्रीसूत उवाच — इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् । आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७॥ (श्रीब्रह्माण्डपुराणतः) पाशाङ्कुशेक्षुसुमराजितपञ्चशाखां पाटल्यशालिसुषुमाञ्चित गात्रवल्लीम् । प्राचीनवाक्स्तुतपदां परदेवतां त्वां पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥
পূৰ্বৱৰ্তী
বিষ্ণু সাহসৰাণাম
পৰৱৰ্তী
শিৱ তণ্ডৱ ষ্টট্রাম
Back to Stotram collection
ললিথা সাহসৰাণামা — Lyrics in Hindi & English | Panchang